________________
जम्बूस्वामिचरिते
अहो स्वामिन्नहो प्राज्ञ धन्योऽसि त्वं जगत्रये । मादृशां का कथा नाथ त्वं पूज्यस्त्रिदशैरपि ।। १५२ ।। संसारजलधेः पारं प्राप्तोऽसि त्वं महामते । धर्मकल्पतरोर्मूलं त्वं भेत्ता कर्मभूभृताम् ।। १५३ ।। इत्यादिस्तवनं कृत्वा तेन विद्युच्चरेण वै । निःशेषमात्मवृत्तांतं गदितं तस्करादिकम् ॥ १५४ ॥ अत्रांतरे दिगासीत्प्राग्रक्तवर्णा सुभास्वरा । जम्बूकुमारसंत्यक्तै रागैर्जातैरिवाध्वनिः ।। १५५ ।। केचित्सद्दृष्टयस्तत्र ध्यानसंलीनमानसाः । कायोत्सर्गपरा भव्या बभूवुः परमादरात् ।। १५६ ।। केचिच्छ्रीमज्जिनेशानां पूजां कर्तुं समुद्यताः । गंधधूपादिसामग्रीं स्वीकुर्वाणा बभ्रुस्तराम् ।। १५७ ।। ततो वेगादुदेति स्म भानुमानुदयाचलात् । स्वामिनं द्रष्टुमौत्सुक्यादुद्यन्नेव गर्भस्तिभिः ॥ १५८ ॥ यत्प्रसादान्महासत्त्वा भुंजतिं सुखमच्युतम् । शक्रचक्रपदं चैव सेव्यो धर्मः स धार्मिकैः ।। १५९ ।।
२०४
इति श्रीजम्बूस्वामिचरित्रे भगवछ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारद पण्डितराजमल्लविरचिते साधुपासात्मजसाधुटोडरसमभ्यर्थिते विद्युच्च रकथाचतुष्कवर्णनो नाम एकादशः पर्वः ।
१ किरणैः ।