________________
२०२
जम्बूस्वामिचरिते
प्रतस्थे सा तदादेशाती मायान्विता सती। आनयामास तं वेगास्थिता यत्र मनोरमा ॥ १३० ।। सा राज्ञी रंतुकामा तं यावन्नीत्वा स्वसद्मनि । शय्यातले समायाता सस्मरा मुरतोत्सवा ॥ १३१ ।। तावदैवागजारूढो भूपोऽध्यत्र समागतः। धृतातपत्रसच्छायो बीज्यमानः सुचामरैः ।। १३२ ।। आगच्छंत तमालोक्य राजानं स्वर्णकारकः । व्याकुलोऽभूद्भयाक्रांतः कंपमानो मुहुर्मुहुः ॥ १३३ ॥ गोपयित्वा तया चंगं कौशल्याद्गूढकूपके । सन्मुखीभूय भूपालः स्नेहान्नीतः स्वसमनि ॥ १३४ ॥ कामासक्तः स भूमीशः षण्मासं स्थितबानिह । मनोरमां मुखांभोजगंधलुब्धमधुव्रतः ॥ १३५ ॥ जीवनस्य कृते तत्र ग्रासमात्र प्रयत्नतः । भुक्तोच्छिष्टच्छलादेव क्षिपति स्म मनोरमा ॥ १३६ ॥ एवं यावत्स षण्मासं तिष्ठस्तत्रातिदुःखितः। पांडुरोगी महापापाज्जातो दुर्गधवासितः ॥ १३७ ॥ अथ भूपाज्ञया नीचैः कूपे प्रक्षालिते जलैः । चंगः प्रणालिकाद्वाराग्निर्गत्यागात्सरित्तटे ॥ १३८ ॥ तत्रत्यैः सर्वलोकैश्च पृष्टः साश्चर्यमानसैः । कोऽसि त्वं ते कथं पांडु जातं कांचनसन्निभम् ।। १३९ ॥ चंगेनोक्तमहो लोका मत्सौन्दर्यावलोकनात् । भोक्तुं पातालकन्याभिनीतोऽहं परमादरात् ॥ १४०॥