________________
जम्बूस्वामिविद्युच्चरकथाचतुष्कवर्णनम् - २०१
आख्यया लोकपालोऽसौ राज्यभारधुरंधरः। तस्य राज्ञी तु नाम्ना स्यादपट्टा मनोरमा । कंदर्पस्य धनुयष्टिजिगीषोरिव भूपतेः ॥ ११९ ॥ अथान्येयुः स भूमीशो जगामाशु स्वलीलया । आखेटकक्रियासक्तो वन्यान्हंतुं वनांतरे ॥ १२० ॥ अत्रांतरे महाराज्ञी राज्ञस्तस्य मनोरमा। कामुकी रंतुकामासीत्कामबाणैर्निपीडिता ॥ १२१ ॥ द्रुतं कांचित्समाहूय विदग्धामभिसारिकाम् । चित्तस्थं गूढमाकूतं सानुदूतीमवेदयत् ॥ १२२॥ मातमा च विजानीहि तद्वाधां सोढुमक्षमाम् । कातरां कुपिते कामे त्वयि तत्परमानसाम् ।। १२३ ॥ तत्वं मे शरणं भूयाः सोद्यता मदनुग्रहे। कामा आनयस्वाशु गत्वाथ सुंदरं तरुणं नरम् ।। १२४ ॥ ना ततः सोचे महापापा दूती साहसिकं वचः । मय्यत्र सानुकूलायां मा दौस्थ्यं कुरु सुंदरि ॥ १२५ ॥ मोहयामि स्ववार्ताभिनिष्काममपि योगिनम् । का कथा नरकीटानां कामाज्ञावशवर्तिनाम् ॥ १२६ ॥ अंतरे दैवयोगाद्वै स्वसौधस्थितया तया । दृष्टः कोऽपि युवा वीथ्यां पर्यटस्तत्र लीलया ॥ १२७॥ नाम्ना चंग इति ख्यातः स्वर्णकारो दृढोरुकः । अयमेवोचितो रंतुं तया चेत्यवलक्षितः ॥ १२८ ॥ दृष्ट्वा तं मृगशावाक्षी दृती प्रत्याह पुंश्चली। एनमानय सोपायैर्जीवनस्य कृते मम ॥ १२९॥ १ मृगस्य शावः पोतकः ।