________________
२००
जम्बूस्वामिचरिते
यामिनीपश्चिमे भागे तुर्ये चापि कथानकम् । एकः कश्चिन्नटोऽभिज्ञो कलाविज्ञानकोविदः ॥ १०८ ॥ आसीदत्र सुविख्यातो यथानामा कुतूहली । अथैकदा नृपस्याग्रे ननर्त्त बहुकौशलात् ॥ १०९ ॥ नर्तकीभिः समाकीर्णः सालंकारिभिरप्यसौ ।
तन्नृत्यं पश्यता राज्ञा प्रसन्नमनसा तदा ॥ ११० ॥ दत्तं स्वर्णादिकं ताभ्यः पट्टकूलादिकं तथा । राज्ञः प्रसादं नीत्वा ते सुषुपुस्तत्र निद्रया ॥ १११ ॥ रजन्यां जागरूकत्वाद्द्वैतुमक्षमका नटाः । अथ सुप्तेषु तेषूच्चैर्नर्तक्यादिजनेष्वति ॥ ११२ ॥ नटवर्य्यस्तदा तस्थौ जाग्रन्नेव स पापधीः । जाग्रता चिंतितं तेन वंचकत्वधियाऽधिया ॥ ११३ ॥ नीत्वा हेमादि सर्वस्वं गच्छेयं नीवृदंतेरे। यथोत्पन्नं कृतं तेन नीत्वा सर्वस्वमंजसा ॥ ११४ ॥ गंतुकामो धृतस्तूर्ण जाग्रद्भिर्नर्तकीजनैः । चौरत्वेनाभियुक्तस्तैनतो भूपस्य सन्निधिम् ।। ११५ ।। दृष्ट्वा रुष्टेन भूपेन कृतं चौरोचितं हि यत् । तद्वखं भागिनेयाहो जम्बूस्वामिन्महामते ॥ ११६ ॥ मागाद्बह्वर्थलाभाय शोच्यावस्थां कदाचन । जम्बूस्वामी निशम्यैतन्मातुलोक्तं कथांतरम् ॥ ११७ ॥ किंचित्कथांतरं रम्यं प्रोवाच प्रतिभान्वितः । वाराणस्यां सुविख्यातो भूपोऽप्यासीन्महत्तरः ॥ ११८ ॥
१ क्षणान्तरे ।