________________
जम्बूस्वामिविद्युञ्चरकथाचतुष्कवर्णनम्
एक: कर्मकरः कश्चिदासीदतिदरिद्रवान् । वनादिन्धनमानीय विक्रीय कुरुतेऽशनम् ।। ९७॥ अथैकदा महाभारं नीत्वा स्कंधे कथंचन । प्रतस्थे बत मध्याह्ने स्वालयं प्रति यत्नतः ॥९८॥ भाराक्रांतोऽथ पापात्मा तप्ततालुश्च तृष्णया । क्षणं सुष्वाप शांतः सन्नपभारस्तरोरधः ॥ ९९ ॥ मुप्तः स स्वममद्राक्षीन्निद्रया कर्मकारकः। साम्राज्यपदमारूढं स्वात्मानं समपश्यत ।। १००॥ आसीनं विष्टरे रम्ये मणिमौक्तिकभूषिते । चलञ्चामरसंघातैर्वीज्यमानं मुहुर्मुहुः ॥ १०१॥ बंदिबुंदजयारावैः स्तूयमान मनोहरैः। कापि यौवतमध्यस्थं कालकेलिरसाकुलम् ॥ १०२ ॥ गजाश्वादिपरीवारर्वेष्टिते राजमंदिरे । अत्रांतरे स पादाभ्यां ताडितो यष्टिमुष्टिभिः ॥१०३ ॥ भार्यया स्वस्य तत्रत्य क्षुधापीडितया बलात् । उत्थितो जागरूकः स चिंतयामास कर्मकृत् ॥१०४ ॥ केयं लक्ष्मीक साम्राज्य दृष्टनष्ट क्षणादपि । तद्वन्माम कलत्रादि स्वमसाम्राज्यसन्निभम् ।। १०५ ।। जानीहि क्षणिकं सर्व सद्यःमाणापहारि च। मत्वेति माम को धीमान् जनो दुःखालयं व्रजेत् ।। १०६॥ त्यक्त्वा स्वात्मोत्थितं सौख्यं जन्ममृत्युविनाशकृत् । जंबूस्वामिका श्रुत्वा प्रोचे विद्युच्चरः सुधीः॥१०७॥ १ युवतीनां समूहः।