________________
जम्बूस्वामिचरिते
तद्यथा घातकः कश्चिद्भिल्लोऽप्यासीद्धनुर्धरः । नाम्ना दृढपहारीति विंध्याद्रो संवसन्निति ।। ८६ ।। तेनैकदा हतो बन्यो कुंजरो बाणसंहतेः। वारि पातुं तृषाक्रांतः समागच्छन् जलाशये ॥ ८७ ॥ दैवात्सोऽपि मृतो भिल्लो दष्टः सर्पण तत्क्षणात् ।। अथ सोऽपि धनुर्घातान्तश्चाशु भुजंगमः ॥ ८८ ॥ मृतेष्वेतेषु जीवेषु गजभिल्लाहिषु स्फुटम् । आगतस्तत्र गोमायुः क्षुधितः कालनोदितः ॥ ८९ ।। पतितं चापि वीक्ष्याशु गजं भिल्लं सरीसृपम् । धनुश्चापि स हृष्टांगो जातो लोभाबुभुत्सया ॥ ९०॥ चिंतति स्माथ गोमायुः कुंजरोऽयं मृतो महान् । भक्षयिष्यामि षण्मासं यावदेन सुनिश्चलम् ॥ ९१॥ ततो मासैकपर्यतममुं नरकलेवरम् । ततोऽप्येकदिनं यावत्सपे भोक्तास्मि निश्चितम् ॥ ९२ ॥ इमे यथास्थिताः सर्वे तिष्ठतु कुंजरादयः। तावदद्य मया भोज्यो ज्याबद्धो गुण एव हि ॥ ९३ ॥ इति तं भक्षमाणोऽसो गोमायुः पापपाकतः। मृतस्त्रुटच्छराघातात्तालुस्फोटेन दुःखितः॥ ९४॥ यथा बहुसुखं चेच्छन् गोमायुर्मुत्युमागमत् । तथा त्वमेहिक सौख्यं त्यक्त्वा मा गच्छ हास्यताम् ।। ९५॥ मातुलोक्तं ततः श्रुत्वा प्रोचे जम्बूकुमारकः । किंचित्कथांतरं रम्यं प्रतिवाक्यदिदित्सया।। ९६ ।
१ गां विकृतां वाचं मिनोति शृगाल इत्यर्थः ।