________________
जम्बूस्वामिविद्युञ्चरकथाचतुष्कवर्णनम्
आसीद्वणिक्सुतः कविद्वाहनव्यवसायवान् । एकदा पोतमारुह्य सोऽगाद्वीपांतरे कचित् ।। ७५ ।। सर्व वस्तु सुविक्रीय रत्नमेकं समग्रहीद । ततः स्वगृहमुद्दिश्य चचाल वणिजां वरः ॥ ७६ ॥ चिंतयन्निति स्वे चित्ते कार्यसंदोहमीहितम् । हस्ते संस्थाप्य तद्रत्नं विलोकयन्मुहुर्मुहुः ॥ ७७ ॥ वेलाकूलमितः प्राप्य विक्रियेऽहं महन्मणिम् । ग्रहीष्यामि गजाश्वादि विविधं वस्तु सुंदरम् ॥ ७८ ॥ ततो नृपसमो भूत्वा यास्यामि निजपत्तनम् । श्रिया च शोभया पूर्णो मंत्रिभृत्यादिसेवितः ॥ ७९ ॥ तत्रापि स्वगृहे स्थित्वा जीविष्यामि सुखं यथा । लालयन्पुत्रपौत्रादि पश्यन् योषित्सु सस्मितम् ॥ ८० ॥ एवं चिंतयतस्तस्य यावद्रत्नमपीपतत् । हस्ताब्धौ प्रमादाद्वा दुर्दैवाद्वा महाभ्रमा (१) ॥ ८१ ॥ मोघीभूतास्ततस्तस्य चिंतिताश्च मनोरथाः । न दृश्यते महारत्नं हाहाकारं प्रकुर्वता ।। ८२ ।। तथाहं न भविष्यामि मातुल त्वमवैहि भो । त्यक्त्वा धर्मफलं सौख्यं दुःखं भुंजामि संप्रति ॥ ८३ ॥ इत्युत्तरप्रदानेन स्वामिना कथितेन वै ।
निरस्तो मातुलो नाम्ना चौरो विद्युच्चरोऽभवत् ॥ ८४ ॥ पुनराह कथामेकां दस्युर्विद्युच्चरस्तदा ।
हतोऽपि मुरजो नूनं करोति मधुरध्वनिम् ॥ ८५ ॥
१९७