________________
१९६
जम्बूस्वामिचरिते
सोवाच रे महाधूर्त मां मुक्त्वेह गतं त्वया । तेनोक्तं हे खले तत्र तिष्ठ त्वं पापशालिनि ॥६४ ॥ एतस्मिन्नंतरे कश्चिज्जंबुकः समुपागतः। उत्पुच्छं चालयन्नाशु मांसखंड मुखे दधन् ॥ ६५ ॥ जलादुच्छ (च्च) लितं मत्स्यमेकं दृष्ट्वा स जम्बुकः । धावति स्म महालोभान्मुक्त्वा मांसं मुखे स्थितम् ॥६६॥ लातुमर्हति यावत्स मत्स्योगाद्वारिमध्यगः। मांसपिंडमितो गृद्धो नीत्वागात्काननांतरे ॥ ६७ ॥ उभभ्रष्टं तमालोक्य जंबुकं दैववंचितम् । सा कामिनी जहासोचैः पंडितमन्यमानसा ॥ ६८॥ अविचार्य कृतं वै तज्जंबुकेन कुबुद्धिना । मुक्त्वा स्वाधीनमेवैतत्परायत्तं समिच्छता ॥ ६९॥ पारे स्थितोऽवदों मर्मभिद्वचनं तदा । त्वयापि किं कृतं मूर्खे पश्यात्मानं सुनिश्चिता ॥ ७० ॥ अयं तिर्यग् न जानाति वाच्यावाच्यं हिताहितम् । त्वं विदग्धा स्वभर्तारं हत्वा चान्यरताभवत् ॥ ७१ ।। तर्जयनिति तां मुक्त्वा धृर्ताऽगात्स्वीयसद्मनि । तदा साधोमुखी जाता नारी लज्जापरा यथा ॥ ७२ ॥ तथा त्वमपि मा गच्छ भागिनेयोऽपहास्यताम् । त्यक्त्वा हस्तस्थितां लक्ष्मीमिच्छन् दूरे स्थितामहो ॥ ७३ ।। ऊचे जंबूकुमारोऽसौ यत्कथां श्रुतिपेशलाम् । प्रसरदशनज्योतिरुद्दयोतितनिजालयः॥ ७४ ॥