SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ जम्बूस्वामिविद्युच्चरकथाचतुष्कवर्णनम् इति श्रुत्वा कुमारस्य वार्त्ता विद्युच्चरस्तदा । जातो निरुत्तरस्तूर्ण मिथ्यैकांतादिवादिवत् ॥ ३१ ॥ अथ विद्युच्चरो दस्युर्मायया मातुलच यः । निरस्तोऽपि कथां कांचिदपरामब्रवीत्पुनः || ३२ ॥ एकः कचिद्वणिग्वृद्ध गृहमेधी प्रियारतः । तस्य प्रिया प्रचंडास्य (स्ति) पुंश्चली नवयौवना ॥ ३३ ॥ सैकदादाय स्वर्णादि तद्नेहादपि निर्गता । विटाद्रतसुखं भोक्तुं स्वेच्छया काम लंपटा ॥ ३४ ॥ गच्छती सापि धूर्तेन केनचिल्लक्षिता क्षणात् । रंजिता मायिना तेन चाटुवाक्यकृता जवात् ॥ ३५ ॥ तामुद्दिश्यावदद्भूतः स्नेहकोमलया गिरा । सुंदरि त्वयि दृष्टायां मयि स्यात्स्नेहवर्धनम् || ३६ | न जानीमो विशालाक्षि कारणं त्वत्र कर्मणि । किं वा जन्मांतराबद्धो स्नेहोऽयाप्यवशिष्यते ॥ ३७ ॥ सावादीच्चेदियं संस्था वर्तते तव चेतसि । तदा त्वमेव मे भर्ता नान्यश्चान्यादृशः क्वचित् ॥ ३८ ॥ ततस्तौ दंपती जातौ स्नेहवृद्धेः (द्धौ) परस्परम् | कामलीलां कुर्वतौ यथेच्छं सुरतप्रियौ ॥ ३९ ॥ ततःप्रभृति कालोऽगात्कियान्बहुतरस्तयोः । एकदा सापि लुब्धा स्यात्सार्द्धमन्येन कामिना ॥ ४० ॥ अथ द्वाभ्यां रतं भुक्ते सा ज्वलत्स्मरशालिनी । निर्लज्जा निर्घृणा पापा मायामिथ्याभिशंसिनी ॥ ४१ ॥ १३ १९३
SR No.034462
Book TitleJambuswami Charitram
Original Sutra AuthorN/A
AuthorRajmalla Pandit, Jagdishchandra Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1937
Total Pages288
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy