________________
१९२
जम्बूस्वामिचरिते
किं बहु प्रस्खलंस्तत्र मृतः कूपे पतन्नसौ । जजरांगो महालोभाद्रभूव करभो यथा ॥ २०॥ तथा त्वं भाविभोगार्थ त्यक्त्वा प्राप्तां हि संपदम् । चिकीर्षसि तपश्चोग्रपज्ञानेन विमोहितः ॥ २१ ॥ जम्बूस्वामी ततो वाचमूचे विद्युच्चरं प्रति । अत्रोत्तरपदं किंचिच्छृणु माम कथांतरं ।। २२ ॥ एको वणिक्सुतः कश्चित्समकार्यरतोऽभवत् । एकदा व्यवसायाथे गतो देशांतरं स्वतः॥ २३॥ मार्गे पिपासितः सोऽयमभूत्काननसंकटे । स्यात्तदा जलमप्राप्य पश्चात्तापेन पीडितः ॥ २४ ॥ निःसृतोऽहं वृथा गेहादरण्ये पतितोऽधुना। न प्रामोति जलं चेन्मे मरणं स्याद्विनिश्चयात् ॥ २५ ॥ चिंतयन्निति यावत्स आस्ते वणिग्वनांतरे । मुषितस्तावत्तत्रत्यैश्चौर्यकर्मपरायणः ॥ २६ ॥ ततः शोकपिपासाभ्यां पीडितोऽसौ वणिग्वरः । गंतुं नालं पदं चैकं सुसुष्वाप तरोरधः ।। २७॥ तत्र सुप्तः स अद्राक्षीत्स्वममेकं वनांतरे। पयः पीत्वा करोति स्म जिह्वया लेहनं तथा ॥२८॥ अथ जाग्रदवस्थः स चिंतयामास चेतसि ।। क सरः क जलं तच्च यन्मया पीतमंजसा ॥ २९ ॥ तद्वत्स्वमनिभां विद्धि मातुल मां च संपदम् । महतां हि कथं स्नेहो भवेदत्र कदाचन ॥३०॥