________________
जम्बूस्वामिविद्युच्चरकथाचतुष्कवर्णनम्
यथा वा संति कामिन्यः कामोत्साहो न विद्यते। अथ कामोद्यमस्तस्य कामिन्यो न कदाचन ॥ ९ ॥ यथा वा दानशक्तिश्चेद्हे द्रव्यं न वर्तते। अथ चेद् (त्स्व गृहे द्रव्यं दानशक्तिन जायते ॥१०॥ देवात्तदुभयं प्राप्य यो न भुंक्ते स मूढधीः । शशशृंगधनुःकृष्टेर्हति वंध्यासुतं जडः ॥ ११ ॥ तस्य हेतोस्तपालेशं चिकीर्षसि विचक्षणः। सांगं निर्विघ्नं पूर्ण तत्सुखं त्वत्पुर स्थितम् ॥ १२ ॥ तत्त्यक्त्वा तपसा नूनं ततः साधिकमीहसे। इदमाकूतं ते प्राज्ञ न परीक्षाक्षम कचित् ।। १३॥ एकं कथानकं रम्यं वच्मि दृष्टांतहेतवे । भागिनेय महाभाग सावधानतया शृणु ॥ १४ ॥ तद्यथा करभः कश्चिदासीत्सौहत्यमंथरम् । यथेच्छं कानने रम्ये भक्षति स्म द्रुमान् बहून् ॥१५॥ एकदा भ्रमता तेन वृक्षः कूपतटे स्थितः। आस्वादितो यथाखाद ग्रीवया लंबमानया ॥१६॥ तद्दलानि मृदून्येव लिहता करभेण च । स्वादित मक्षिकाजालान्मधुबिंदुं तथैककम् ॥ १७॥ चिंतयामास चित्ते स रसास्वादवशीकृतः। वृक्षस्यास्योर्ध्वशाखायां साधिकं तद्भविष्यति ॥१८॥ निश्चित्येति महालोभादूर्ध्वशाखां प्रचक्रमे । गंतुं पुनः पुनश्चोर्ध्वशाखां प्रति तृषातुरः ॥१९॥