________________
अथ एकादशः पर्वः ।
धर्मवृद्धिप्रसादाद्वै सर्वेऽभीष्टा भवंतु ते । साधुपासांगजस्याहो तव श्रीसाधुटोडर ।। १ ।। इत्याशीर्वादः ।
मल्लि मोहमहामलप्रतिमल्लमहं स्तुवे । मुनिसुव्रतमाम्नातसुव्रतोपज्ञसंज्ञिकम् ॥ १ ॥ अथ विद्युच्चरोऽवादीन्मया मातुलसंज्ञकः । मार्दवोद्रोधमिच्छुस्तं जम्बूस्वामिनमंजसा ॥ २ ॥ अहो जम्बूकुमार त्वं महाभागो महोदयः । कामदेवसमो दीप्त्या वीर्याद्वज्रिसमो वली ॥ ३ ॥ हिमरश्मिसमः सौम्यो यशसात्र महीतले । मेरुवद्धीरवीरस्त्वं गंभीरश्च समुद्रवत् ॥ ४ ॥ भानुमानिव तेजस्वी कंजवत्कोमलाशयः । शरणागतं महाराज रक्षणे भुजपंजरः ॥ ५॥ दुर्लभं भोगसामग्रीं जानीहि त्वं धरातले । सा सर्वापि त्वया प्राप्ता पूर्वोपार्जितपुण्यतः ॥ ६ ॥ दुर्लभं चैकतश्चैकं वस्तुजातं स्वभावतः । भोक्तुं शक्तिर्न केषांचिद्यथासत्यपि भोजने ॥ ७ ॥ परेषां भोजनं नास्ति भोक्तुं शक्तिस्तु वर्तते । द्वयं प्राप्य न भुंजीत यः स दैवेन वंचितः ॥ ८ ॥