________________
जम्बूस्वामिभार्याचतुष्ककथा-विद्युञ्चरागमनवर्णनम् १८९
संपदः संति सर्वाश्च तत्र को वर्णयेत्कविः। यतो मुक्तिमगान्नेमिः यदुवंशविभूषणः ॥ २२४ ॥ भिल्लमालं विशालं च गच्छेऽहं त्वर्बुदाचलम् । लाटदशं महारम्यं सर्वसंपत्समन्वितम् ॥ २२५ ॥ चित्रकूटं गिरं सौम्यं देशं मालवसंज्ञकम् । पारियात्रमवंत्याश्च देशं जैनालयाङ्कितम् ॥ २२६ ॥ उत्तरस्यामथो दृष्टा मया शाकंभरी पुरी। जैनचैत्यालयाकीर्णा मुनिदैः समाश्रिता ॥ २२७ ।। काश्मीरं करहाटं च सिंधुदेशसमस्तकम् । दृष्टवान्हेलया चाहं किं दूरं व्यवसायिनाम् ॥ २२८ ॥ ततः पूर्वदिशाभागे कन्नौज गौडदेशकम् । अंगं वंर्ग कलिंगं च जालंधरमनुक्रमात् ।। २२९ ॥ बाणारसी कामरूपं दृष्टवानहमादरात् । यद्यदृष्टं मया पूर्व तत्संव कथ्यते कियत् ।। २३० ॥ इति विविधकथोघं सद्विवेकी स भृण्वन् परपरिचयभीतः कामिनीमध्यसंस्थः । तदनुविरतचित्तो चौरवाक्यं च किंचित् जयति जगति पूज्यः स्वामिजम्बृकुमारः ।। २३१ ।। इति श्रीजम्बूस्वामिचरित्रे भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासात्मजसाधुटोडरसमभ्यर्थिते भार्याचतुष्ककथाविद्युच्चरागमनवर्णनो नाम दशमः पर्वः ॥८॥