________________
१९४
जम्बूस्वामिचरिते
मनस्यन्यद्वचस्यन्यत्काये कुर्वति योषितः । अहो क्वापि न कर्तव्यो विश्वासस्तासु पंडितैः ॥ ४२ ॥ एकदा प्रथमो जारश्चितयामास दुष्टधीः । निगृह्णामि कथं चैनमनया भार्यया सह ॥ ४३ ॥ सोपायः स गतः शीघ्रं तलरक्षकसन्निधिम् । क्रोधाविष्टो महारौद्रमूचे दुश्चरितं तयोः ॥ ४४ ॥ तलरक्षक मद्वार्ती शृणु साश्चर्यकारिणीम् । रात्रौ कश्चित्समागत्य रमते मामकी वधूम् ॥४५॥ अथ चेत्तं कथंचित्त्वं क्षमो धतुं निशीथिके । तदा ते स्वर्णलाभः स्यादित्युक्त्वा स गृहेऽगमत् ॥ ४६॥ क्रमाजाते निशीथेऽथ जाग्रन्नेव स्थितस्तदा । यः पूर्वोपपतिस्तस्या द्रष्टुं तच्चरितं स्वयम् ।। ४७॥ अथागतो भोक्ता तस्या द्वितीयोपपतिः शनैः। तदंकात्सा समुत्थाय तत्समीपे गतेत्वरी ।। ४८ ॥ तेन नीता भराभोक्तुं यावत्कामातुरेण सा। तावत्तत्रागतस्तूणे ग्रहीतुं तलरक्षकः ॥ ४९॥ तत्र कोलाहले जाते सा दुष्टा कपटान्विता । पुनर्व्याघुव्य सुष्वाप पूर्वोपपतिसन्निधौ ।। ५० ॥ आगतास्ते महारौद्रास्तलरक्षकभृत्यकाः। ऊचुः कोऽत्र गृहे तिष्ठेविटो वा तस्करोऽथवा ॥ ५१ ॥ द्वितीयोपपतिर्वेगादुवाचान्वेषयंतु भोः। न जाने घूर्णमानोगो (नांगो) निद्रयाहं सुचूर्णितः ।। ५२॥