________________
जम्बूस्वामिचरिते
चौर्यकर्म करोम्यत्र नित्यं वनगरे वसन् । अतःपूर्व हृतं मातबहुशोऽपि महाधनम् ॥१९॥ मुषितं त्वद्गृहादेव स्वर्णरत्नादिकं मया । किमत्र बहुनोक्तेन यावदद्य विधीयते ॥ १९१ ॥ अथोवाच कुमारस्य माता विद्युच्चरं प्रति।' वत्स यद्रोचते तुभ्यं तद्गृहाण ममालयात् ॥ १९२ ।। ततो विद्युञ्चरेणोक्तं वाक्यं जिनमती प्रति । मातर्मन्यस्व मे चिन्तां न स्यादद्य धनार्जने ॥ १९३ ॥ किंतु कौतूहलं चैतन्मया दृष्टमपूर्वजम् । यावो न मनो भिन्नं कटावरयोषिताम् ॥ १९४ ॥ कारणं हि किमत्राहो मातरभ्रांतितो वद । अतस्त्वं मे वसा धर्मादहं भ्राता तथा तव ।। १९५॥ श्रुत्वा जिनमती पोचे धैर्यमालंब्य तं प्रति । भ्रातरेकोऽस्ति पुत्रो मे सुप्रीतः कुलदीपकः ॥ १९६॥ मोहादुद्वाहितोऽप्यद्य तपो वांच्छेद्विरक्तधीः । आसूर्योदयमस्यास्ति नियमस्तपसे ध्रुवम् ।। १९७।। भ्रातजैनीमसौ दक्षिां ग्रहीष्यति न संशयः । तद्वियोगकुठारेण मे मनः शतखंडताम् । नीयतेऽतोऽधुना भ्रातर्जातास्मि चलचेतसा ॥ १९८ ॥ द्रष्टुं पुत्रोत्सवं दैवाधृभिः सह संगमम् । मुहुर्मुहुर्वेश्मद्वारं व्याकुलाहं विलोकये ।। १९९ ॥ श्रुत्वा जिनमतीवाक्यं जातः कारुणिको महान् । ऊचे मातर्मया ज्ञातं सर्वमेतत्कथानकम् ॥२०॥