________________
जम्बूस्वामिभार्याचतुष्ककथा-विद्युच्चरागमनवर्णनम् १८५
सौधं सौधं भ्रमन्नेव चिंतयंस्तलरक्षणात् । सोर्हद्दासगृहे दैवात्प्रविष्टो दुष्टधीः खलु ॥ १७९ ॥ शय्यागारं कुमारस्य प्राप्तश्चेति व्यचिंतयत् । आदौ रत्नानि गृह्णामि किं वा पश्यामि कौतुकम् ॥१८॥ वधूवरद्वयोरेव मिथःसंजल्पकोतुकम् । शृणोम्येकाग्रतो नूनं ततो मुष्णामि तद्धनम् ।। १८१ ।। इति निश्चित्य चित्ते स्वे शुश्रूषुः स्याद्वयोरपि । वाती विद्युच्चरो नाम्ना दस्युकर्मरतोऽपि यः ॥ १८२ ।। श्रुत्वा द्वयोर्यथा वृत्तं वृत्तांत वरकन्ययोः । परमाश्चयपदो जातः सोऽपि विद्युच्चरस्तदा ॥ १८३॥ अहो धैर्यमहो धैर्य वर्णितुं केन शक्यते । यावोऽपि मनोधैर्य नापि भिन्नं वधूजनैः ॥ १८४ ॥ अत्रांतरे कुमारस्य माता सा दुःखपूरिता । गमागमो करोति स्म व्याकुला तत्र वर्त्मनि ॥ १८५ ॥ पश्यति स्म महामोहाद्गृहद्वारं मुहुर्मुहुः। किं जातमथ किं भावि वर्तमानमथात्र किम् ।। १८६ ।। कामिनीकंठपाशे किमपतत्किमुतोऽथवा । इति संशयदोलायामारूढा दु:खिता सती ।। १८७॥ कुट्यपार्थेऽथ संलीनं तस्करं संददर्श सा । अवादीद्भीतभीता च कः कोऽस्त्यत्र महानिति ॥ १८८॥ ततो विद्युच्चरोऽवादीन्मातर्मा गच्छ साध्वसम् । अहं विद्युच्चरो नाम्ना चौरोऽस्मीह धरातले ।। १८९ ।।