________________
१८४
जम्बूस्वामिचरिते
प्रातःकालेऽथ संजाते दृष्टः पौरजनैरिह । तदस्थिपंजरातिर्यक् निःसर्तुमपि न क्षमः ॥ १६८ ॥ चिंताव्याकुलितः सोऽयं चिंतति स्म निजे हृदि । अद्य मे मरणं नूनं संप्राप्तं दैवयोगतः ।। १६९ ।। अथ पौरजनः कश्चित्तस्य कर्णद्वयं यथा । पुच्छकं च लुनाति स्म सिद्धौषधिधिया कुधीः ॥ १७० ॥ चिंतितं जम्बुकेनेह जीविष्ये चेदहं मनाक् । ईदृशोऽपि कथंचिद्वै न नष्टं मे किमप्यहो ।। १७१ ॥ अथ कचिद्विस्तस्य रदानुत्खाय चाश्मना । नीत्वागमद्गृहे स्वस्य वशीकरणहेतुतः ।। १७२ । अचिंतयत्तदा सोऽपि दैवाज्जीव्ये कथंचन । ईदृशोऽपि प्रदोषेऽद्य नूनं यामि वनांतरम् ।। १७३ ।। चिंतयन्निति तत्राशु श्वानाद्यैर्मारितः क्षणात् ।
भक्षितश्च शृगालोऽसौ रसनावशगो यथा ।। १७४ ।। तथाहं न भविष्यामि विषयांधो न मूढधीः । प्रिये जानीहि कः प्राज्ञो दृष्टिवानुत्पथे पतेत् ॥ १७५ ॥ मामशक्तं हृषीकार्थैरायंत्यां कः समुद्धरेत् ।
न परीक्षाक्षमं चैतद्वचोऽपि तव सम्मतम् ।। १७६ ।। इत्थं नानाविकाराद्यैः संलापैस्तत्र योषिताम् । न चचाल मनस्तस्य मनागपि महात्मनः ॥ १७७ ॥ अत्रांतरे चुरासक्तो नाम्ना विद्युच्चरो नरः । निशि कामलतागेहान्निर्गतश्चौरकर्मणे ।। १७८ ॥
१ उत्तरकाले ।