________________
जम्बूस्वामिभार्याचतुष्ककथा-विद्युञ्चरागमनवर्णनम् १८३
कृष्णसर्प तमालोक्य कालरूपं पुरःस्थितम् । तत्रास्ते कृकलासोऽयं भीतश्चिंतातुरो भयात् ॥ १५८ ॥ जीविष्येऽहं कथं दैव केनोपायेन सांप्रतम् । चिंतयन्निति तद्वेगाद्विवेश नकुलालये ॥ १५९ ॥ नागोऽपि तमनुप्राप्य छिद्रे छिद्रशतान्विते । क्षुधार्तानामहो कास्था प्राणिनां प्राणिसंकटे ॥ १६०॥ तत्राप्यने स्थितं मुक्त्वा कृकलासं सरीसृपः। गच्छति स्म ततोऽप्यग्रे तत्कुटुम्बजिघृक्षया ॥ १६१ ।। विशंस्तत्र बिले दृष्टा नकुलैः स बिलेशयः। भक्षितस्तैः क्षुधाक्रांतः संभूय बहुभिर्यथा ॥ १६२ ।। तथायं मामकः स्वामी विवेकरहितो जडः। प्रत्यग्रासं त्यजंल्लक्ष्मी पथभ्रष्टो भविष्यति ॥ १६३ ॥ श्रुत्वा जम्बृकुमारोऽसौ वाक्यं रूपश्रियोदितम् । ऊचे तत्प्रतिबोधाय रम्यं किंचित्कथांतरम् ॥१६४ ॥ आसीत्स जम्बुको कश्चिदत्र विख्यातभूतले । एकदा तु विभावयर्या जगाम नगरांतरम् ॥ १६५ ॥ तत्र जरद्वं चेकं मृतं दृष्ट्वा स हर्षितः । अद्य संपत्स्यते नूनं यथास्वं मे मनोरथः ॥ १६६॥ चिंतयित्वा प्रविष्टः स तदलीवर्दपंजरे । भक्षयन्पिशितं तस्य नाज्ञासीद्रजनीं गताम् ।। १६७॥
१ बुभुक्षितः किं न करोति पापं । इति हितोपदेशे । २ सर्पः । ३ रात्रौ । ४ वृद्धवृषभ।