________________
१८२
जम्बूस्वामिचरिते-
आकर्ण्यदं वचस्तस्य मर्तुकामस्य दुर्दृशः । विद्याधरी जगामाशु सत्वरं स्वास्पदं प्रति ।। १४७ ॥ अथ प्राप्तः स पंचत्वं सरघाशतपीडितः । व्याकुलीभूय प्राणांते हाहाकारं स्टन्निति ।। १४८ ।। कूपेऽपीपतदेवासौ लब्धदत्तो वणिक्सुतः । युग्ममूषकसंछिन्नवटारोह समन्वितः ॥ १४९ ॥ कूपांतः प्रपतन्नाशु भक्षितोऽजगरेण सः । कालरूपेण तेनाहो लब्धदत्तो वणिग्यथा ।। १५० ।। तथाहं न विशालाक्षि सुखलेशस्य हेतवे । कालवक्त्रे महाभीमे विशाम्यात्महतो भवन् ॥ १५१ ॥ निर्व्यूढा स्वामिवाक्यात्सा विनयश्रीः सुश्रीरपि । अथोवाच कथां तुर्यां रूपश्री रूपशालिनी ।। १५२ ॥ अथैकदा समायातः प्रावृट्कालो मनोहरः । नवांभोदैर्महीभागं कुर्वनेकार्णवं जवात् ।। १५३ । रुंधच्छिद्राणि सर्वाणि वारिपूरैर्महीतले । विद्युद्भा (?) त्कारसंत्रस्तयोषिज्जनकदंबकः ।। १५४ ॥ गमनागमनाभ्यां च कर्दमीभूतभूतलः ।
महा दुर्दिनतमस्तोमतिरोहितदिवाकरः ।। १५५ ।। अथ चैवंविधे काले वर्तमाने महीतले ।
कुंकलासः क्षुधाक्रांतो निर्गतो भुक्तये विलात् ॥ १५६ ॥ तेन पर्यटता दृष्टो दंदशूकोऽतिभीषणः । अंजनाभोऽतिवीभत्सश्चलज्जिह्वांचलः ऋधः ॥ १५७ ॥
१ सरटः कृकलासः स्यात् इत्यमरः ।