________________
जम्बूस्वामिभार्याचतुष्ककथा-बिद्युञ्चरागमनवर्णनम् १८१
नागोऽथ रोपवानेत्य वटमुत्खातुमुद्यमी। आत्मस्कंधबलेनेह ध्वनति स्म महाद्रुमम् ।। १३६॥ स्थितस्तत्र वटावासे च्युतो माक्षिकसमनः । एकस्तस्योन्मुखस्यास्ये मधुबिंदुरपीपतत् ।। १३७ ।। से तेन निर्वृति लेभे यथा लब्धं मनीषितम् । उत्तमं स्थानमैवैतन्मया प्राप्तं वदन्निति ॥ १३८ ॥ अत्रांतरे खगः कश्चित्संचरन्व्योमवर्त्मनि। दृष्ट्वा दुःस्थं तमुत्तीर्य विमानादित्यवीवदत् ।। १३९ ।। रेरे मूढ खगेशोऽहं त्वामुद्धर्तुमलं त्वर । मामकं भुजमालंब्य निःसरस्वाशु संकटात् ॥१४०॥ श्रुत्वावादीत्स मूढात्मा तद्रसास्वादलोलुपः। प्रवीक्षस्व खगेश त्वं मन्मुखे संपतन्मधु ।। १४१ ॥ तावत्सुखेन तिष्ठामि जीव्ये चाहं यथास्थितः। मधुबिंदुरसाभावात्ततो निःसरणेन किम् ॥ १४२ ॥ भृण्वन्नपि कृपाक्रांतः खगो भूयोऽवदत्सुधीः। रेरे मूढानभिज्ञोऽसि मर्तमिच्छसि किं हठात ॥१४३॥ नेक्षसे मरणं पार्चे स्थितं ते दुर्निमित्ततः । विदुमात्रस्य लोभेन मा याहि यममंदिरम् ॥ १४४ ॥ आलकोलाहलेनालं यदि जीवितुमिच्छसि। आलंबयस्व मे बाहं विलंबोऽनुचितस्तव ॥ १४५ ॥ इत्यादिविविधैर्वाक्यैर्वोधितोऽपि खगेशिना । नागमन्मार्दवं सूर्यो रसनेन्द्रियवंचितः॥ १४६॥