________________
१८०
जम्बूस्वामिचरिते
हा वंचितोऽस्म्यहं नूनं दुईवेन विपाकिना । यतो लब्धमपि स्यान्न दानायाथ न भुक्तये ॥ १२५ ॥ स्ववशां भुंजते नैव लक्ष्मी प्राप्तामपीह यः। पश्चात्तापपरो मूर्खः संखवत्स भविष्यति ॥ १२६ ॥ जम्बूस्वामी निशम्येतद्विनयश्रीकथानकम् । प्रोचे कथांतरं व्याजाद्वाक्यं प्रत्युत्तरप्रदम् ।। १२७ ।। आसीद्वाणिग्वरः कश्चिल्लब्धदत्त इतीरितः। वाणिज्याय जगामाशु कांतारं वमै दुर्गमम् ।। १२८ ॥ दुर्दैवात्तत्र संलग्नो गजो दुर्मदभीषणः । हेतुं तं वणिज कोपात्कृतांत इव निर्दयः ।। १२९ ।। तीतो वणिजां नाथः प्रपलायनितस्ततः। वटमारोहमालंब्य स्थितः कूपांतरालतः ॥ १३० ॥ तत्र प्रारोहमूलं वत्कृतांतं मृषकद्वयम् । सितासितं च वर्णेन संददर्श वणिग्वरः ॥ १३१ ॥ चिंतितं तेन चित्ते स्वे किं कर्तव्यं मयाधुना । कूपगर्ते पतिष्ये चेद्भविष्ये शतखंडतां ॥ १३२ ।। चिंतयन्निति यावत्स स्थितो धीरतया वणिक् । तावत्कृपस्य भूभागेऽजगरं दृष्टवानहो ॥ १३३ ।। कंपमानोऽथ तद्भीतेरंतरे तत्र कूपके । पाववाल्मीकरंध्राच निर्गता भीषणाहयः ॥ १३४ ॥ यादृशं वणिजो दुःखं तत्राजायत संकटे । चिंताव्याकुलचित्तस्य कः क्षमो वक्तुमंजसा ॥१३५॥