________________
जम्बूस्वामिभार्यां चतुष्ककथा-विद्युच्चरागमनवर्णनम् १७९
श्रुत्वाश्चर्यवती भार्या जाता रोमांचिता तदा । भद्रं तथास्तु हे कांत चिरंजीवी त्वकं भव ॥ ११४ ॥ अथ मयोदितं मंत्रमवश्यं क्रियतां त्वया । संचितो रूपकः पूर्व योऽसौ संगृह्य लक्षताम् ॥ ११५ ॥ सोपि तत्रैव संस्थाप्यो रत्नभांडे सुकौशलात् । त्वमहं च तथापूर्व कुर्यावः कर्म सांप्रतम् ॥ ११६ ॥ प्रामाणितं दरिद्रेण मोहाद्भार्योदितं वचः । वरं वरं त्वयोक्तं यत्कांते वैदग्ध्यशालिनि ॥ ११७ ॥ ततस्तौ दंपती स्यातां काष्ठाद्युद्धरक्षमौ । तद्वनाच्छिरसा नीत्वा विक्रीय च कुक्षिंभरौ ॥ ११८ ॥ एवं व्यतीयमानेऽत्र काले कियति चानयोः । दैवाद्रत्नपतिः सोऽयमागतस्तत्र कानने ।। ११९ ॥ यथास्थाने निरीक्ष्याशु न लब्धं रत्नभांडकम् । ततश्चोद्यमवान् जातो यत्र तत्र निरीक्षणे ॥ १२० ॥
चिराल्लब्धं धनेशेन रत्नभांडं स्वपुण्यतः । नीत्वोत्खाय गतः सोऽयं सानंदात्स्वालयं प्रति ॥ १२१ ॥ अहो पुण्यवशालक्ष्मीश्चंचलापि स्वभावतः । विनष्टाप्यन्यथानेन कथं लब्धा सुखादिह ।। १२२ ॥ एकदोद्घाट्य कुंभं तं रिक्तं यावत्स पश्यति ।
हत्वा हत्वा शिरः स्वीयं रोदिति स्म जडोऽधमः ॥ १२३ ॥ रत्नभांडेन तेनालं मम पूर्वोऽपि रूपकः । संचितोऽपि विनष्टोऽभूत्तेन सार्द्धं स्वदुष्कृतात् ॥ १२४ ॥