________________
जम्बूस्वामिचरिते
तथा नाहं भवाम्यत्र संसारे प्रियवादिनि । निर्मग्नं विषयेषूच्चैः कः को मां हि समुद्धरेत् ॥ १०३ ॥ इत्युत्तरवलादेव कनकश्रीरश्रीरभूत् । विनयश्रीस्तृतीयोचे या कथाकोषकौशला ॥ १०४ ॥ एकः कश्चिदरिद्रो हि संखनामास्ति कुत्रचित् । मध्येवनं स प्रत्यूषे याति काष्ठादिहेतवे ॥ १०५ ॥ ततश्चेन्धनमानीय विक्रीयाथ यथार्थतः । क्लेशेन वल्भनं तस्य भवेत्साततरोदयात् ॥ १०६ ॥ एकदा बहुमूल्यत्वाल्लब्धं किंचित्ततोऽधिकम् । भोजनादवशिष्टं स्यादेकं रूपकमात्रकम् ॥ १०७ ॥ ततो विमृश्य दीनोऽसौ भार्यया समकं तदा । आपद्रक्षादिहेतोस्तद्भूमौ निक्षिप्तवानिह ॥ १०८ ॥ अथ कश्चित्प्रवासी च साध्वसात्तत्र कानने । रत्नभांडं सुनिक्षिप्य गतस्तीर्थादिकेषु सः ।। १०९ ।। काननं भ्रमता तेन दृष्टं तदैवयोगतः । निक्षिप्तं च ततोऽन्यत्र लोभात्तत्र विमृश्यता ॥ ११० ॥ प्रत्यहं रत्नमेकैकं ग्रहीष्यामि प्रयत्नतः । इत्यानंदमनाश्चासौ वेगात्तूर्ण स्वसद्मनि ॥ १११ ॥ गत्वा गेहे दरिद्रोऽसौ भार्यौ प्रति निवेदयत् । रत्नभांडं मया प्राप्तं प्रिये पुण्योदयादिह ॥ ११२ ॥ स्थापितं तच्च कांतारे मया चाद्य प्रयत्नतः । सत्यं जानीहि हे कांते नान्यथा वच्मि कर्हिचित् ॥ ११३ ॥
१७८