________________
जम्बूस्वामिभार्याचतुष्ककथा- विद्युच्चरागमनवर्णनम् १८७
मा विभीस्त्वं सुसाध्येऽस्मिन् कार्ये कार्यविदा मया । यथाकथंचित्तत्पार्श्वे मंक्षु मां हि प्रवेशय ।। २०१ ॥ मोहनं स्तंभनं मंत्र तंत्रं चापि वशीकरम् । यथावदुर्घटं किंचित्तत्सर्वं हेलया क्रिये ॥। २०२ ।। अद्य चेदध्वदनसरोजालीमधुव्रतम् ।
त्वत्पुत्रं न करोम्यत्र तदेयं मे गतिर्ध्रुवम् ॥ २०३ ॥ एवं कृतप्रतिज्ञोऽसौ यावदास्ते वहिः स्वयम् । गत्वा जिनमती तत्र तद्वारे शनकैः स्थिता ॥ २०४ ॥ अंगुल्ययैः कपाटस्य युगलं तर्जयत्यपि । नोवाच व्रीडया किंचिच्चातुर्यैकनिधिस्तदा ॥ २०५ ॥ अररद्वंद्वमुद्घाटय नीतांतः सूनुना तदा । आशीर्दानपरा जाता प्रसन्ना प्रणुता सती ॥ २०६ ॥ अथ जम्बूकुमारेण विज्ञप्ता विनयाद हो ।
त्वरितं वद भो भ्रातः किमत्रागमकारणम् ॥ २०७ ॥ ऊचे जिनमती पुत्र त्वयि गर्भस्थितेऽगमत् । अनुजोऽयं मामको भ्रातर्वाणिज्यार्थे विदेशके ।। २०८ ॥ इदानीं स समाकर्ण्य पुत्रोद्वहमहोत्सवम् । दूरादप्यागतो द्रष्टुं युष्मत्संदर्शनोत्सुकः ॥ २०९ ॥ श्रुत्वा जिनमतीवाक्यमूचे जम्बूकुमारकः । आनयस्वाशु भो मातरागतं मम मातुलम् || २१० ॥ पुत्रस्याज्ञां समादाय मात्रा नीतः समश्रयात् । दस्युर्विद्युच्चरो नाम्ना तत्समीपे समागतः ॥ २११ ॥
१ कपाटम् ।