________________
जम्बूस्वामिचरिते
श्रुत्वेतिवचनं रम्यं पावनं सुनिनोदितम् । निश्चिकाय खगेनाशु स्थापितं हृदि दुर्धिया ।। ८१ ॥ यतः स्थानात्कपिर्मृत्वा जातो विद्याधरो नरः । नूनं ततः खगो मृत्वा देवोऽहं भविता क्षणात् ॥ ८२ ॥ अतएव मयावश्यं कर्तव्यं मरणं वरम् । ततः कैलासकूटाग्रात् पतित्वाथ तथाविधम् ॥ ८३ ॥ विमृश्य चैकदाऽवादीत्खगो निजभियां प्रति । यथा मनीषितं स्वस्य प्राणघातस्य सूचकम् ॥ ८४ ॥ प्रिये सर्वं हि सुप्राप्यं स्वर्गमोक्षादिकं फलम् । केवलं शैलकूटाग्रात्पातेनाशु विशंकया ।। ८५ ।। भर्तुर्वचः समाकर्ण्य विललापातिदुःखिता । भार्या विद्याधरस्योच्चैर्विहला दीनमानसा || ८६ ॥ कांत कांत महाप्राज्ञ वृथा मरणमिच्छसि । विद्याधरोऽसि नाथ त्वं दुर्लभं किमतः परम् ॥ ८७ ॥ उल्लंघ्याथ प्रियावाक्यं शैलंगात्पपात सः । मृत्वा दुर्ध्यानयोगेन यातो रक्ताननः कपिः ॥ ८८ ॥ सख्यो यथा खगो मूर्खो मुक्त्वा स्वाधीनसंपदः । मृतश्चापन्मयो जातस्तथास्माकीयनायकः ।। ८९ ॥ प्राप्ताश्चापि महारम्यास्त्यक्त्वा सर्वा हि संपदः । भाविन्यस्ताः समीक्षेत प्राप्यते तपसा न वा ॥ ९० ॥ जम्बूस्वामी तदाकर्ण्य सर्व कनकश्रियोदितम् । प्रोवाचोत्तरं व्याजादेकं किंचित्कथांतरम् ॥ ९१ ॥
१७६