________________
जम्बूस्वामिभार्याचतुष्ककथाविधुच्चरागमनवर्णनम्
१७५
मध्येजलं यथाधावत्पतितोऽसौ महांबुधौ । काकस्तत्पिशितग्रासरससंलुब्धमानसः॥ ७० ॥ भक्षितं तद्पुस्तूर्ण मत्स्यायैर्जलचारिभिः। काकेन गंतुमारब्धमुड्डीनेन महाम्बुधौ ॥ ७१ ॥ उड़ीयोडीय यावत्स व्योम्नि पश्यति दिङ्मुखम् । स्थानं ग्रामं तरं शैलं विश्रामाथे न किंचन ॥ ७२ ।। कियत्कालं स बंभ्रम्य पतितोऽथ महार्णवे।
आस्यैकंककमित्युक्त्वा वराको पंचतां गतः ॥ ७३ ।। यथा तन्मांसलुब्धन प्राप्ता चापदनीदृशी। तथाहं न भविष्यामि कांताः कांतवपुश्चयाः॥ ७४ ॥ भोक्तारं चाधुना भोगान् युष्मत्संस्पर्शसंभवान् । तत्पाकान्मां निमज्जंतमुद्धरेत्को भवांबुधौ ।। ७५ ॥ दृष्टांतेन प्रतिध्वस्तं तत्पद्मश्रीकथानकम् । कनकश्रीरथोवाच कथां कौतूहलावहाम् ॥ ७६ ॥ कैलासे पर्वते रम्ये कपिश्चैकोऽभवकिल । दैवयोगादथान्येयुः शैलशृंगमधिष्ठितः ॥ ७७ ॥ पतित्वाथ ततो वेगात्खंडखंडितविग्रहः। अकामनिर्जरां कुर्वन् मृत्वा जातः खगाधिपः॥ ७८ ॥ एकदा स मुनि नत्वा पप्रच्छ स भवांतरम् । मुनिस्तूचे यथावृत्तं सावधिज्ञानचक्षुषा ॥ ७९ ॥ पुरा जन्मनि विद्येश त्वमासीत्कपिरुत्तमः। केलासात्वं पतित्वाशु मृत्वा जातो खगः शुभात् ॥ ८॥