________________
१७४
जम्बूस्वामिचरिते
उवाच पुत्र भो तात जीर्णत्वात्सस्यसंपदम् । पोन्मूल्य रोपयिष्यामि नाश्चात्ममुखाप्तये ॥ ६॥ समाकर्ण्य वचस्तस्य पित्राप्युक्तं स्वबुद्धितः । सिद्धं त्यजसि रे पुत्र नव्यं कांक्षसि रे जड ॥ ६१ ॥ छलान्वेषी स पुत्रोऽपि वचश्चोचे समृद्धवाक् । तातैवं चेत्स्मरस्याशु रात्रौ यज्जल्पितं त्वया ॥ ६२ ।। हत्वाध मां सुसत्ताकं पुत्रं वांछति भाविनम् । सुखार्थ कांतया सार्द्ध तात बुद्धिस्तवेदशी ॥ ६३ ॥ पुत्रवाक्यात्स मूर्योऽपि जातः प्रतिबुद्धतां क्षणात् । दुराग्राही त्वयं बाले नेतुं शक्यो न मार्दवम् ॥ ६४ ॥ अज्ञवच्चेष्टते तद्वत्स्वामी जम्बूकुमारकः । स्वाधीनाः संपदस्त्यक्त्वा संदिग्धाः पुनरीहते ।। ६५॥ एतत्सर्व कथावृत्तं श्रुत्वा प्रोवाच धीधनः । निरीहोऽपि यथा चक्ति धर्माख्यानं मुयोगिराट् ॥६६॥ प्रियाः कथानकं चकं भवरोधविधायकम् । सावधानतया श्राव्यं भवतीभिर्मयोदितम् ॥ ६७॥ विंध्याचले महाटव्यां मृतश्चैको मतंगजः । वर्षापूरभरेणेव नर्मदा प्रति सोऽप्यगात् ।। ६८॥ तत्तत्कलेवरं कश्चिद्भक्षमाणोऽपि वायसः । अन्वगात्तत्करकस्थो लोलुपः पिशिताशितः ॥ ६९ ।।
१ तत्कपालोपरि स्थितः।