________________
जम्बूस्वामिभार्याचतुष्ककथाविद्युञ्चरागमनवर्णनम् १७३
यदासौ लांगलं मंद मंद वाहयति स्फुटम् ।। तदा त्वमप्यतः पश्चाद्वाहयातीव वेगतः॥५०॥ खरगैर्बलीवर्दैः प्रातोदादतिताडितैः । मारयैनमनायासाद्यथाधूर्तविचेष्टितम् ॥ ५१ ।। एवं कृते न भूपालो दंडं दास्यति ते कचित् । नापि बंधुजनाः सर्वे युष्मदोषावहा मनाक् ।। ५२ ॥ भार्योक्तं प्रतिपाद्यासौ कामांधो हालिकः कुधीः । तथास्त्विति वचश्चीचे तामाश्चास्य पृथग्जनः ।। ५३ ॥ आलिंग्याभिमुखीभूय संतुष्टासौ स्वमानसे । कामकलिं तथा चक्रे प्रिया सुरतिपण्डिता ॥ ५४ ।। अथ तत्सूनुना सर्वमाणितं यथोदितम् । सुप्तेनोपगृहं वृत्तं समक्षमनुरक्तयोः ॥ ५५॥ प्रातरुत्थाय मागेव तत्रागात् सबलः सुतः। हालिकस्तदनु प्रातो हंतुकामः स्वनंदनम् ॥ ५६ ।। पृष्ठलग्नोऽपि यावत्स जनकस्तत्र गच्छति । तावत्तनंदनेनाशु क्षेत्रे संवाहितं हलम् ॥ ५७ ।। अथ गत्वा ददर्शासौ पामरश्चात्मजं वरम् । मूलोन्मूलं हि कुर्वाणं शालिक्षेत्रं हलास्यतः ॥ ५८ ॥ दृष्ट्वाथ हालिकोऽवादीद्रे रे पुत्र महाशठ । भ्रात्या (1) कष्टकर नूनमर्थच्छेदं करोषि किम् ।। ५९ ॥ १ लम्। २ नीचजनः ।