________________
१७२
जम्बूस्वामिचरिते
श्रुत्वेति कंपमानोऽसौ हालिकः पुनरब्रवीत् । वद मुग्धे महादुष्टमेतत्कर्म दधे कथम् ॥ ३९ ॥ किं श्रेयस्तद्धेनापि दर्शयस्व प्रिये मम । नं हि कार्यमनुद्दिश्य मंदश्चापि प्रवर्तते ॥ ४०॥ हालिकं सा (पिया) वादीयुक्तिसंदर्भया गिरा। हते त्वस्मिन्महाश्रेयो भावीति शृणुत (१) यथा ॥४१॥ सत्यस्मिन् सूनवः केचिये यास्यंति ममोदरात् । ते सर्वेऽप्यस्य दासत्वं करिष्यति न संशयः॥ ४२ ॥ अतोऽयं सर्वथा वध्यो नूनं भर्तर्विधेहि तत् । मारिते त्वत्र ते सर्वे स्वाधीनाः स्युः सुखावहाः॥ ४३ ।। एवं तद्वचनैरीषत्यस्खलन्मानसोऽपि सः। किंचित्कारुणिकस्तत्र हालिकः पुनरब्रवीत् ॥ ४४ ॥ मुग्धे निरपराध तं मारयामि मुतं कथम् । अपि चैकं गृहस्यास्य वोढोरं विनयान्वितम् ॥ ४५ ॥ यदि वा मारिते त्वस्मिन् राज्ञो दंडभयो भवेत् । बांधवाश्चापि ते सर्वे दोषं दास्यति सत्वरम् ॥ ४६ ॥ पुनर्दुर्ललिता सोचे भर्तारं हालिकं प्रति । वधेनं सर्वथा भर्तरन्यथा नावयोः सुखम् ।। ४७॥ अतः परं तु मद्गर्भे ये भविष्यति मूनवः । वृद्धत्वे ते करिष्यंति निर्विघ्नं सुखमावयोः॥४८॥ अप्युपायं च ते वच्मि यथा तस्य वधे कृते। नापि भूपतिभीतिः स्यान्नापि रुष्यंति बांधवाः ।। ४९ ।। १ प्रयोजनमनुद्दिश्य न मंदोऽपि प्रवर्तते इति सुभाषिते। २ भारवाहकं ।