________________
जम्बूस्वामिभार्याचतुष्ककथाविधुचरागमनवर्णनम्
१७१
हालिकेन ततः पश्चादुद्वाह्याशु सुतं वरम् । परिणीता परा स्वस्मै वृद्धेनापि सकामिना ॥ २९ ॥ षोडशाब्दमिता सेयं षष्टिवर्षमितः स्वयम् । तया सार्द्ध रतिक्रीडां कुर्वन्नास्ते स कामुकः ॥ ३० ॥ अथाऽन्येार्निशीथे सा कामुकी कामिना सह । कथंचित्प्रणयक्रोधाज्जाता मानमधिष्ठिता ॥३१॥ ततोऽनुनेतुकामोऽसौ स्वप्रियां तां प्रसादयन् । उवाच हालिकः कामी चाटुवाक्यं वदन्निति ॥ ३२ ॥ प्रिये प्रिये वदस्वाशु सन्मूखीभूय मां मति । कोपस्य कारणं किं स्यादत्राकस्मात्मिये मयि ॥ ३३॥ वदत्येवं मृदूक्त्यापि सानुकूलेऽपि भर्तरि । मा मां स्पृश करेणेति सावदत्क्रोधशालिनी ॥ ३४ ॥ अलं त्वया प्रियेणापि मद्वचोऽकुर्वता शठ । अज्ञानान्निन्नता प्रीतिं तल्लक्षणमजानता ॥ ३५ ॥ उक्तं च"पानीयं च रसः शीतं परानं सादरं रसः। रसो गुणयुता भार्या मित्रश्चानंतरो रसः" ॥ ३६॥ इत्याकर्ण्य स भार्योक्तमूचे वाचः प्रियंवदः । वद पिये मया चाशु कर्तव्यं त्वन्मनीषितम् ।। ३७ ।। लालितानुनयेनेह सोचे पापाशया शुभा। नंदनं सबलं नाम्ना घातयैन मुनिश्चयात् ।। ३८॥
१ रात्रौ।