________________
जम्बूस्वामिचरिते
यधेि नर्तनेनापि गानेन बधिरे न हि । कातरे किं कृपाणेन किं लक्ष्म्या कृपणे वृथा ॥ १८ ॥ सखे समीक्षकारीव वर्तते ग्राहवानयम् । प्राप्तं तपःफलं त्यक्त्वा पुनः कर्तुं समीहते ॥ १९ ॥ यथा कश्चिन्नरो मूर्खः सिद्धमन्नं स्वसद्मनि । त्यक्त्वाज्ञानात्ममादाद्वा भिक्षुर्भिक्षामटत्यहो ।। २० ।। तपसां हि फलं सौख्यं तत्स्वर्गे वा महीतले। प्राप्तं चापि न जानाति नूनमध्यक्षतो जडः ॥ २१ ॥ वयं रंभासमा नार्यः सझैतत्स्वर्गसन्निभम् । वपुर्दिव्यं गृहे संपद दुर्लभं किमतः परम् ॥ २२ ॥ सर्व स्वाधीनमुत्सृज्य तपः कत्तु समीहते । तत्र सा प्राप्यते नो वा विवेकरहितस्त्वयम् ॥ २३ ॥ सख्यः कथानकं चैकं रम्यं दृष्टांतभूमिजम् । सावधानतया श्राव्यं युष्माभिर्वम्यहं यदि ॥ २४॥ शृण्वंति स्म च तास्तिस्रो साश्चर्याः सकुमारकाः। पद्मश्रीरवदत्सौम्या धनदत्तकथानकम् ॥ २५ ॥ यथात्र होलिकः कश्चिद्धनदत्तो नाम्नाप्यभूत् । तस्य भार्या यथानान्नी वर्तते स्म मुदान्विता ॥ २६ ॥ तयोर्जातः सुतश्चैको नाम्ना वै सबलो बली । अप्येकाकी स निष्णातो गृहकार्ये क्षमः क्षमी ॥ २७॥ अथ दैववशात्तस्य हालिकस्य मृता वधूः। लब्ध्वा लक्ष्मीयथा स्वप्ने दृष्टनष्टाभवत्क्षणात् ॥ २८ ॥ १ हलेन खनति इति कर्षकः इत्यर्थः ।