________________
जम्बूस्वामिभार्या चतुष्ककथाविद्युच्चरागमनवर्णनम्
आद्या (त्मा) नंदमजानानो जनः प्रज्ञापराधतः । विषयेषु समासक्तः सुखं वदति मृढधीः ॥ ८ ॥ किं चास्मिन्सुखे मग्नो जीवो मज्जति दुर्गतौ । योषित्पाशैर्दृढं बद्धो यथा वागुरया मृगः ।। ९ ।। आशीर्विषं वदत्यन्ये दंदेशूकविशेषकम् । वृथा वै तदहं मन्ये चेदथो योषिदंजसा ॥ १० ॥ यासामर्धविलाकैश्च ददयंते हि कामुकाः । ज्वलत्कामाग्निना दग्धाः शराघातैर्मृगा इव ॥। ११ ॥ असारेऽपि वधूकाये मोमुह्यते शठाः कथम् । त्यक्त्वातीन्द्रियसौख्यं हि सीदंति बत दुर्मदाः ।। १२ ।। यदत्र गर्हितं किंचित्चत्सर्वे स्त्रीकुटीरके । वर्चोमूत्राद्यसृङ्मांससंभृते कीकसोच्चये ॥ १३ ॥ सुंदरं चापि यद्वस्तु पूतं वा यन्निसर्गतः । वपुःसंसर्गतो नूनं याति दुर्गंधतां क्षणात् ॥ १४ ॥ आलकोलहलेनालमिमाः सर्वाश्च योषितः । मन्ये प्राणिविधाय धात्रा पाशा विनिर्मिताः ।। १५ ।। एवं संचितयन्नास्ते यावत्स्वामी स्वचेतसि । तावत्प्रोवाच पद्मश्रीस्तास्तिस्रोऽपि वधूः प्रति ।। १६ ।। अहोऽस्मिन् निर्गुणे पुंसि किं कृतेनापि चाटुना । वाणाः कुर्वति किं षंढे मन्मथस्यापि सर्वशः ।। १७ ।।
१ अशिषि आश्यां वा विषमस्येति विषधर इत्यर्थः ।
२ गर्हितं दशति इति ददशकः सर्पः। ३ पुरीषं ।
१६९