________________
अथ दशमः पर्वः।
भवत्वाराधिता सम्यग्भारती परमेष्ठिनां । साधुपासांगजस्यास्य श्रेयसे साधुटोडरः॥१॥ इत्याशीर्वादः। कुंथु कुंथ्वादिसदयं धर्मतीर्थविधायकम् । अरं चारिविनाशाय वंदे मुक्तिवधूवरम् ॥१॥ अथ तासां चतसृणां दृष्ट्वा पंचेषुविक्रियाम् । निर्विवेद विदांवों जम्बूस्वामी तदर्थकृत् ॥ २ ॥ हा धिगज्ञानमेवैतन्मोहकर्मोदयादिह । यत्मभावान्नु मन्यते जीवा दुःखं हि सौख्यवत् ॥ ३॥ तथा मरीचिकां पातुं मृगो धावति वार्धिया । तथा प्राणिगणश्चायमिच्छेद्वेषायिकं सुखम् ॥ ४॥ यथा कंड्यनं कुर्वन्नातुरो नखरैः खरैः। अजानन् स्ववपुःपीडां मनुते हि वरं वरम् ॥ ५ ॥ तत्सौख्यं यन्निराबा, साधोः स्वात्मसुखाप्तये । निर्विपेक्षमथो नित्यमव्याबाधमतीन्द्रियम् ॥ ६॥ इदं त्वाक्ष्यं सुखाभासं परं बाधापुरःसरम् । बंधहेतुनित्यं च तद्धेयं हि महात्मभिः ॥ ७ ॥ १ सपरं बाधासहियं विच्छिण्णं बंधकारणं विसमं । जं इंदिएहि लद्धो तं सोक्खं दुक्खमेव तहा ॥
इति प्राकृतश्लोकः।