________________
१६४
जम्बूस्वामिचरिते
निरीहोऽपि कुमारः स पितुरत्याग्रहात्तदा । तथेत्युवाच तात त्वं मा विषादीः वचेतसि ॥ ८६ ॥ ततो मांगल्यतर्याणि पंचानां श्रेष्ठिनां ग्रहे। नेदुरानंदभेर्यश्च पूरिताशामुखा जवात् ॥ ८७ ॥ कलगीतानि कामिन्यो गायंति स्म मुदान्विताः। संत्रस्तमृगनेत्रास्ताः पीनोन्नतपयोधराः ॥ ८८॥ उद्वाहोचितसामग्री या काचन प्रसिद्धितः। तया सह चचालासावश्वारूढः कुमारकः ।। ८९ ॥ ध्वनद्भिर्वाद्यसंधैश्च बंदिदैः सुशब्दकैः। पठद्भिस्तबशोध्वानं नृत्यद्भिर्नर्तकीजनैः ॥ ९॥ पौरांगणादिसल्लोकैदृश्यमानः पदे पदे । प्राप जम्बूकुमारश्च वादित्तस्य समनि ।। ९१ ॥ उत्तीर्य तुरगात्तूर्णमुपविष्टश्चतुष्किकाम् । मेघगंभीरनिस्वानो धीरो मंदरकंठवत् ॥ ९२ ॥ अथानीताभिरत्यर्थमुद्राहस्य कृते कृती। करग्रहमनिच्छोऽपि प्रेच्छेद्विधिवशात्स हि ॥ ९३ ॥ विवाहानंतरं सर्व स्वर्णरत्नादिपावनम् । दत्तं सागरदत्ताचैर्दानीयं यद्वरोचितम् ॥९४ ।। पट्टकूलानि श्लक्ष्णानि विचित्राणि वि (व) स्त्राणि च । वरायादुर्दुहिता (त) भ्यो मणिमुक्ताप्रवालकान् ।। ९५ ॥ सत्कर्पूरसुमिश्राणि कुंकुमादीनि सन्मुदे । पल्यकासनयानादिवस्तूनि वणिजो ददः॥ ९६ ॥