________________
जम्बूस्वामिपरिणयनोत्सववर्णनम्
१६३
धिग्भोगाविषयोत्पन्नानिन्द्रजालोपमानिह । पतौ गच्छति दीक्षायै वयं तूपपती रताः ॥ ७५ ॥ अथ चेद्भाविनी सेयं भोगसंपदनीहशी। अस्माकं भाग्यसंयोगादयं स्थास्यति सद्मनि ॥ ७६ ॥ यदि भोगांतरायस्य कर्मणो मे विपाकतः। वारितो बहुधोपायैरयं गंता तपोवने ॥ ७७॥ तदापि न मनस्तापो भविता मे मुनिश्चयात् । नान्यथा शक्यते कत्तुं यद्भाव्यं तद्भविष्यति ॥ ७८ ॥ अलमत्र बहूक्तेन तात वाचंयमी भव । सर्वथा पतिरेको मे जम्बूस्वामिकुमारकः ॥ ७९ ॥ श्रुत्वा सागरदत्ताख्यः श्रेष्ठी पुत्रिवचस्ततिम् । सर्व निवेदयामास तं संदेशहरं प्रति ।। ८० ॥ श्रुत्वा वचोहरश्चापि गत्वा श्रेष्ठिनिजालये। जगाद सर्वतस्तत्त्वं यथा कन्याकथानकम् ॥ ८१॥ अथ चादृश्यतां गच्छन् भानुरस्ताचलं श्रितः। अहो न क्षमका द्रष्टुं संतः परविपत्तयः॥ ८२ ॥ इति कर्तव्यतामूढः सोऽहंदासो वणिक्पतिः। गत्वा प्रति कुमारं तं विज्ञप्तिमकरोत्कृती ॥ ८३॥ एकमेव दिनं वत्स विवाहानंतरं तव । त्वया ताभिः सहास्थानं कर्तव्यं चैकशः किल ॥ ८४ ॥ मामकी प्रार्थनां पुत्र मामोघां विधेहि भो। पश्चाद्यद्रोचते तुभ्यं तत्तद्यथा विधीयताम् ॥ ८५॥