________________
१६२
जम्बूस्वामिचरिते
तावत्स एव संपृष्टः श्रेष्ठिभिस्तैर्महाकुलैः। वद सौम्य वचस्तथ्यं कारणं किमिहात्र भो ॥ ६४ ॥ स संदेशहरोऽवादीचातुर्यतरया गिरा। अहो स्वामिकुमारोऽयं तितीर्घभववारिधः ॥६५॥ निश्चयात्कामभोगेभ्यो निस्पृहो दुःखभीरुकः। सस्पृहो मुक्तिकामिन्यां जैनी दीक्षा ग्रहीष्यति ॥६६॥ श्रुत्वा ते वणिजा नाथा: क्षणाद्वैलक्षतां गताः। बोधयितुं स्वकन्यास्ता ययुर्व्याजानिजालयम् ॥ ६७॥ तत्र गत्वा समाहूय नीताश्चाप्यनुशासितुम् । ताः कन्याः कुलशीलत्वं न जहुर्लेशतस्त्रिधा ॥ ६८ ॥ पुत्रि जम्बूकुमारोऽयं श्रूयते भोगनिस्पृहः । व्रतान्यादातुमीहेत तपःपूर्वाणि मुक्तये ॥ ६९ ।। तद्गृह्णातु यथाकामं का नो हानिस्तु सांप्रतम् ।। भवतीनां समुद्राहे भवेच्चाद्य वरोऽपरः॥ ७० ॥ निशम्यैतत्पितुर्वाक्यं पद्मश्रीः कंपिता तदा । प्रमादाद्वा कथंचिद्वै प्राणिहत्येव योगिराट् ॥ ७१ ॥ तात मा वद दुर्वाचमंतींडाकरां मयि । प्राणांतेऽपि न कर्तव्या क्रमहानिमहात्मभिः ॥ ७२ ॥ एक एव यथा देवः सर्वदोषविवर्जितः। अहमिति त (स) दाख्यातो धर्मश्चैको महात्मनाम् ॥ ७३ ।। तथा जम्बूकुमारोऽयं भर्ता चैको हि मामकः। नापरः कश्चिदेवाती नियमो मे निसर्गतः ।। ७४ ॥ १ शिक्षां दातुं । २ यथाभिलाषं ।।