________________
१६०
जम्बूस्वामिचरिते
अवस्थेयं क ते वत्स वयोलीलानुसारिणी । केदं दीक्षाश्रमं सौम्य दुर्द्धरं महतामपि ।। ४२ ।। अथ चेत्सर्वथोत्कंठा वर्तते तव चेतसि ।
एकशः स्वगृहे गत्वा कुरु कृत्यं मयोदितम् ।। ४३ ॥ बंधुवर्ग समाहूय समापृच्छयाथ गौरवात् ।
समाधानतया कृत्वा क्षेतव्यं च परस्परम् ॥ ४४ ॥ पश्वाद्गृहाण नैर्ग्रथीं दीक्षां कर्मक्षयंकराम् । एष क्रमः समाम्नायात्स्वीकृतः पूर्वमूरिभिः ।। ४५ ।। श्रुत्वा जम्बूकुमारोऽसौ प्रोक्तं सौधर्मसूरिणा । चिंतयामास स्वे चित्ते किं कर्तव्यं मयाधुना ।। ४६ ।। चैत्सद्मनि न गच्छेयमहं स्वात्महठादिह । गुरोराज्ञाविलोपः स्यात्स न श्रेयस्करः स्वतः ॥ ४७ ॥ ततोऽवश्यं हि गंतव्यं मया स्वात्मालये जवात् । पश्चादागत्य दीक्षां तां गृहीष्यामि तपोन्विताम् ॥ ४८ ॥ निश्चित्येतन्नमस्कृत्य गुरुं सौधर्मसंज्ञकम् । जम्बूस्वामिकुमारोऽसौ जगामाशु निजालयम् ।। ४९ ।। गत्वाथ त्वरितं तत्र वार्ता जिनमतीं प्रति । निश्च्छतः स्वचित्तोत्थां सर्वा तामप्यचीकथत् ।। ५० ।। मातर्नूनं विजानीहि निर्विण्णोऽहं भवादिति । इतः पाणिपुटाहारं कर्तव्यं मयका ( हि मया ) शुचि ॥ ५१ ॥ चकंपे श्रुतमात्रेण माता जिनमती सती । पवनेनेरिता वेगाद्धिमदग्धेव पद्मिनी ।। ५२ ।।