________________
जम्बूस्वामिपरिणयनोत्सववर्णनम्
जन्य
१५९
यो ज्यायान् भावदेवोऽभूद्भवांस्तु भवदेवकः। एवं भवांतराख्यानं जानीहि त्वं मुनिश्चयात् ॥ ३१ ।। वत्स कर्मवशाज्जीवा भाववर्ने भ्रमंति हि । अलभ्यमानाः स्वात्मीयं भावं कर्मविनाशकम् ॥ ३२ ॥ त्वं हि ततो दिवश्च्युत्वा विद्युन्मालिचरोऽमरः । अर्हद्दासगृहे सूनुर्जातः सर्वसुखाकरः ॥ ३३ ॥ याश्चतस्रोऽपि त्वद्देव्यः क्रमादनुपरिच्युताः। जातास्तास्तनया नूनं वाद्धिदत्तादिश्रेष्ठिनाम् ॥ ३४॥ ताश्चतस्रोऽपि त्वद्भार्या भविष्यंति विवाहिताः। पूर्वस्नेहानुकारिण्यो भवंतं प्रति सोत्सुकाः ॥ ३५ ॥ श्रुत्वा भवांतरं खस्य साक्षात्कारिसुनेर्मुखात् । प्रवृद्धवीरवैराग्यो जम्बूस्वामिकुमारकः ॥ ३६ ।। मुनिमुद्दिश्य विज्ञप्तिमकरोद्विनयानतः। प्रतिबुद्धः कुमारोऽसी निविण्णो भवदेहयोः ॥ ३७॥ मुने निर्व्याजबंधुस्त्वं जातश्चोद्धरणे मम । तथाद्यापि कृपानाथ मामुद्धर भवार्णवात् ॥ ३८ ॥ प्रसादं कुरु मे दीक्षां देहि नँग्रंथ्यलक्षणाम् । निस्पृहस्य तु भोगेभ्यः सस्पृहस्यात्मदर्शने ॥ ३९ ॥ आकयेदं वचस्तस्य कुमारस्य महामुनिः। ऊचे साम्नैव तच्चेतःसमाधानकरं वचः ॥ ४० ॥ जानन्नप्यवधिज्ञानाद्वालमासन्नभव्यकम् । भाषासमितिसंशुद्धयै जगौ कोमलया गिरा ॥४१॥