________________
जम्बूस्वामिपरिणयनोत्सववर्णनम्
१५७
इहैव मगधे देशे वर्द्धमानाभिधो वरः। ग्रामोऽस्ति तत्र विप्रो द्वौ स्यातामासन्नभव्यकौ ॥९॥ भावदेवस्तु ज्येष्ठः स्याल्लघीयान् भवदेवकः। क्रमादादाय दीक्षां तो जैनी सर्वसुखपदाम् ॥ १०॥ सन्न्यासे मरणं कृत्वा स्वर्गलक्ष्मीस्वयंवरी। जातौ सनत्कुमाराख्ये द्वावेतो त्रिदशालये ॥ ११ ॥ स्वायुरंते ततश्च्युत्वा समुत्पन्नौ यथाक्रमात् । वज्रदंतनृपस्य स्यात्सूनुः सागरचन्द्रमाः॥ १२ ॥ भावदेवचरः सोऽयमाद्यो भ्राता द्विजोत्तमः। लघीयानपि संजातो भवदेवचरश्च यः ॥१३॥ चक्रवर्ती महापद्मो विख्यातः खाख्यया भुवि । तत्पुत्रोऽजनि माहात्म्यान्नाम्ना शिवकुमारकः ॥ १४ ॥ तत्राप्युभौ तदादाय व्रतं घोरतपोऽन्वितम् । अंते समाधिना मृत्वा जातो ब्रह्मोत्तरेऽमरौ ।। १५॥ विमाने श्रीप्रभे जाते भवदेवचरो द्विजः । भावदेवः समुत्पन्नो जलकांताभिधेऽमरः ॥ १६ ॥ दशसागरपर्यतं भुक्त्वा भोगानिरंतरम् ।। स्वायुरते ततश्चापि समुत्पन्नो हि भारते ॥ १७ ॥ इहैव मगधे देशे नगरालीविराजिते । जैनधर्मास्पदे रम्ये मुनिवृंदसमन्विते ॥ १८॥ संवाहनपुरं नाम्ना तत्रास्ति नगरं वरम् । सोधपंक्तिभिरालीढं वरस्त्रीभिर्विभूषितम् ॥ १९ ॥