________________
अथ सप्तमः पर्वः।
भवतु भावशुद्धयर्थे स्वभावो भवहानये । धर्मे धर्मफले रागस्तव श्रीसाधुटोडर ॥ १ ॥ इत्याशीर्वादः । धर्मनाथं स्तुवे धर्मतीर्थेशं धर्मसिद्धये । शांतिनाथं पुनौमि शांतये चाष्टकर्मणाम् ॥ १॥ अथ जम्बुकुमारेण चिंतितं निजमानसे | कुतः पुण्योदयादेतन्मया लब्धं यशोधनम् ॥ २ ॥ तत्सर्व प्रश्रयात्रष्टुमागतो मुनिसंनिधौ । तं प्रणम्योपविष्टश्च विनयावनताननः ॥३॥ भो मुने कृपया किंचिद्रूहि मे संशयच्छिदे । कोऽहं कुतः समायातः कस्मात्पुण्यविपाकतः ॥ ४॥ जन्मांतरस्य वृत्तांतं ज्ञातुमिच्छामि त्वन्मुखात् । त्वमुपेक्षापरः स्वामिन् निस्पृहः सुखदुःखयोः॥५॥ शत्रौ मित्रे समानस्त्वं जीवने मरणे समः । स्तुतिनिंदासमः सौम्यो वास्यां वा हरिचंदने ॥६॥ त्वं निस्तारी भवावर्तात्त्वं मुने भक्तवत्सलः । जीवन्मुक्तस्त्वमेवासि कृपालुः सर्वजंतुषु ॥७॥ अथोवाच मुनिर्नाम्ना सौधर्मो धर्मदेशकः । शृणु वत्स वदेते(?)ऽद्य वृत्तांतं पूर्वजन्मनः ॥ ८॥