________________
जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम्
१५५
Bananan
धर्मोपदेशनिरतं शिष्यैः पंचशतैर्वृतम् । अवबोधचतुष्कैश्च पूर्ण स्वप्रतिभान्वितम् ॥ १४१ ॥ वंदति स्म महाभागस्त्रिपरीत्य त्रिशुद्धितः । मुनि सार्ध कुमारेण सकलत्री नरेश्वरः॥ १४२ ॥ भूपस्तद्दर्शनान्नूनं मन्यमानः कृतार्थताम् । निजधान्नि प्रवेशाय चचाल पृतनावृतः ॥ १४३ ॥ विशन् राजगृहे राजा शोभया शुशुभेतराम् । सार्द्ध जयश्रिया चापि राज्यलक्षम्या न केवलम् ।। १४४ ॥ धर्मकल्पद्रुमः सेव्यः किमन्यैर्बहुजल्पितैः । यत्पाकादर्थकामादिफलं स्यात्पावनं महत् ।। १४५ ॥ इति श्रीजम्बूस्वामिचरित्रे भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधु
पासासुतसाधुटोडरसमभ्यर्थिते जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनो नाम षष्ठः पर्वः ।