________________
१५४
जम्बूस्वामिचरिते
बकपंक्ति निरीक्षस्व सरस्तीरेषु सुंदरि । त्वत्कंठालंबिनी माला यथा (सु) स्वमनसां त्वयि ।। १३० ।। इतश्चक्रयुगं पश्य चकोराक्षि विलक्षताम् । गतं त्वद्वदनं वीक्ष्य चन्द्रोदयविशंकया ।। १३१ ।। चातकध्वनिमाराद्वै शृणु स्नेहानुकारिणीम् । रदंतं परमप्रीत्या बहुशोऽपि प्रिये प्रिये ॥ १३२ ॥ मंजरी पिंजरां पश्य मुग्धे चूतद्रुमावलीम् । तव कर्णावतंसाभ्यां स्पर्द्धमानां सुकोरकैः ।। १३३॥ गुंजविरेफवृंदानि पश्य पश्य वनांतरे । त्वद्गुणस्तोत्ररूपाणि लिखितान्यक्षराणि वै ॥ १३४ ॥ दूराददो वनं पश्य केकिकेकारवाकुलम् । सेनारजश्चयाकीण घनागमसुशंकया ॥ १३५ ॥ इतः पश्य सरोजालिं प्रफुल्लेन्दीवरानने । शोभमानां द्विरेफैश्च त्वदाननजिहासया ॥ १३६ ।। अयि पल्लवितां वल्लीमक्षगोचरतां नय । त्वन्मृदुकरसंस्पर्दा कुर्वती स्वदलैरिति ॥ १३७ ॥ कांते कांतिजुषश्चैतान् पश्य सुमनसां चयान् । त्वन्मुखामोदमादाय दधतः श्रियमुत्तमाम् ।। १३८ ।। इतिप्रभृतिमार्गाणां शोभा संदर्शयन्नयम् । प्रियायै श्रेणिको भूपः प्राप राजगृहं पुरम् ॥ १३९ ॥ तत्राप्युपवने धीमान् क्षणं तस्थौ ससैनिकः । ददाथ मुनि नाम्ना सौधर्म धर्मतत्परम् ॥ १४० ॥ १ केका वाणी मयूरस्य ।