________________
जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम् १५३
समाधाय खगेशौ द्वौ राज्ञा सन्मानदानतः । प्रेषितौ तौ यथास्थानं खालय स्वालयं प्रति ॥ ११९॥ खगो गगनगत्याख्यः सत्कृतश्च पुनः पुनः । निजधाम जगामाशु स्वामिधर्मपरायणः ॥ १२० ॥ अथ प्रतस्थे भूमीशो पुरं राजगृहं प्रति । तां विशालवती नीत्वा सानंदो मगधाधिपः ।। १२१ ॥ उल्ललंघ महीपालो विंध्याचलमहाटवीम् । तां विशालवती वैन्यान् दर्शयन्निव कौतुकी ।। १२२ ।। हे मृगाक्षि निरीक्षस्व मृगगथानितोऽमुतः। स्पद्धो कंतु समायातास्त्वन्नेत्रैः सममंजसा ।। १२३ ॥ अवलोकय बाले त्वं सुन्दराबाजयूथपान् । यद्गमेननोपमीयेत त्वद्गतिलीलयानया ॥ १२४ ॥ इतः केशरिणं पश्य वल्गंतं तं तन्दरि । यस्त्वया निजितो नूनं कटिदेशे सुशोभया ॥ १२५ ।। इतो वराहान् पश्याशु वराहारपयोधरे । उत्खातमस्तकानेवं मुखं व्यादाय भक्षकान् ॥ १२६ ॥ विशालाक्षि निरीक्षख कपिवृंदानपीह तान् । तव चित्तचमत्कारनिर्जिता ये निसर्गतः।। १२७ ॥ कोकिलायाः कलालापमाकर्णय पिकस्वने । यस्त्वया मधुरध्वानैर्वनांतऽपि तिरस्कृतः॥ १२८ ॥ इतो हंसरुतं पार्थे श्रूयतां मृदुभाषिणि । अनुनेतुं वरटी स्वां कुर्वश्चाटूनि सस्मरम् ।। १२९ ।। १ वनवृक्षान् । २ हंसस्य योषितुरटा ।