________________
१५२
जम्बूस्वामिचरिते
श्रेणिकोऽपि ततस्तूर्ण समुत्थाय निजासनात् । आलिलिंग कुमारं तमुत्सुकः परमादरात् ॥ १०८॥ साधु साधु मया दृष्टो यच्चिरादपि भो भवन् । त्वयि दृष्टे महान् हर्षो जातो मे हृदि संप्रति ॥ १०९ ।। ततो गगनगत्याख्यस्तवृत्तांतपचीकथत् । यथावृत्तं द्वयोरेव तत्तथा श्रेणिकं प्रति ॥ ११० ।। ततोऽसौ दर्शयामास संज्ञया हस्तसंज्ञया । तत्तन्नामविशिष्टं वा तं तं व्योमगतिः खगम् ॥ १११ ॥ एष देव मृगांकोऽयं ददौ ते तनयां निजाम् । एषास्य महती भायो नान्ना स्यान्मालतीलता ॥ ११२ ॥ एष रत्नशिखो नाम्ना ख्यातो विद्याधराग्रणीः । निर्जितो यः कुमारेण दुर्जयो महतामपि ॥ ११३॥ श्रुत्वेदं तन्मुखाद्राजा स लेभे निर्वृति पराम् । यथा चंद्रोदये सिंधुर्बुद्धिमाप सहांभसा ॥ ११४ ॥ स्तुति चक्रे कुमारस्य श्रेणिकश्च मुहुर्मुहुः। निसर्गान्मृदुभाषित्वं राज्ञि तूपकृतौ न किम् ॥ ११५॥ परिणीताथ मृगांकस्य तनया सा वरोचिता । या विशालवती नाम्ना श्रेणिकस्य कृतेऽर्पिता ॥ ११६ ॥ ततश्चोदहकल्याणे नृत्यं तेनुः खगेश्वराः। कामिन्यो गजगामिन्यो गायंति स्म समंगलम् ॥ ११७ ॥ मैत्रीभावो द्वयोश्चापि रत्नचूलमृगांकयोः । मिथः कारापितस्तेन श्रेणिकेन महौजसा ॥ ११८॥