________________
१४८
जम्बूस्वामिचरिते
पाणिना वा महामेरुं कचालयितुमिच्छति । स्वप्त्वा वा सिंहशय्यायां कश्चोल्लाघः सुखं व्रजेत् ॥ ६४॥ तथा त्वं मामतिक्रम्य भद्रं यास्यसि सद्मनि । इदमेव महच्चित्रं बीडया नावृतो यतः ॥६५॥ वदत्येवं कुमारेऽस्मिन् जम्बूस्वामिनि संगरे । सन्मुखीभूय सन्तस्थौ योद्धं रत्नशिखस्तदा ॥६६॥ अथोवाच कुमारोऽसौ रत्नचूलं खगं प्रति। आवाभ्यां केवलं युद्धं विधेयं किमथापरैः॥ ६७॥ ततः सर्वान्समुत्सार्य सैनिकांश्च महाभटान् । द्वावेव तस्थतुः सज्जौ कर्तु संग्राममुद्यतौ ॥ ६८ ॥ ततो युद्धमभूद्धोरं द्वयोः शस्त्रैश्च दारुणैः। नानाविधैर्महातीक्ष्णैरन्योन्यं जयकांक्षिणोः ॥ ६९ ॥ मुमोच रत्नचूलोऽसौ नागास्त्रं स्वामिनं प्रति । न्यक्कृतं तत्कुमारेण गारुडास्त्रेण तत्क्षणात् ।। ७०॥ पुनः कोपोपरक्तः सन्नग्निवाणं ससर्ज सः। प्रशशाम तदा वेगात्कुमारो जलवृष्टिभिः॥ ७१॥ पुनस्तोमरघातेन हतो रत्नशिखो यदा । तदा हंतुं कुमारं स चक्रं जग्राह बाहुना ॥ ७२ ।। यावन्मोक्तुं स शक्नोति चक्रं रत्नशिखः खगः। तावद्वेगात्कुमारेण क्षिप्तो वाणो जवाद्रिपौ ।। ७३ ॥ तेन बाणेन तच्चक्रं खंडितं तीक्ष्णहेतिना । न्यपतत्तद्रजः स्कंध विद्युद्घातादिव द्रुतम् ।। ७४ ।।