________________
जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम्
१४९
तद्वाताच्चूर्णमानांगं नागं वीक्ष्य खगेश्वरः। भूमाववततारासौ कुंतहस्तश्च कोपवान् ॥ ७५ ॥ तावज्जम्बूकुमारेण क्षणादुत्तीर्य दंतिनः। हत्वा मुष्टिप्रहारेण पातितः पृथिवीतले ॥ ७६॥ त्यक्तमानधनः सोऽयं जीवन्नारोप्य दंतिनि । रत्नचूल: कुमारेण बलाबद्धो खगाधिराट् ॥ ७७॥ तदसौ मुमुचे तूर्ण मृगांकं बंधनालयात् । व्यभ्रे व्योम्नि शरत्काले यथादित्यो घनात्यये ॥ ७८ ॥ पुष्पवृष्टिं मुरास्तेनुः कुमारजयशंसिनः । दिशो दुंदुभिनादेन पूरयंतो नभोङ्गणे ॥ ७९ ॥ चक्रुर्जयजयारावं सर्वे ते त्रिदशादयः । अहो पुण्यद्रुमात्स्वादु फलं सर्वा हि संपदः ॥ ८ ॥ अथ प्रवेशयामासुः कुमारं केरलां प्रति । तौर्यत्रिकमहानादेगांकादिक्षितीश्वराः ॥ ८१ ॥ यदाप परमानंदं खगो व्योमगतिस्तदा । स्तोतुं न शक्यते सर्यो निरवशेषतया मया ॥ ८२ ॥ अथ पौरस्त्रियस्तत्र पीनस्तनभरानताः। चिक्षिपुः सुमनान्युचैः कुमारमनुरागतः ।। ८३ ।। काश्चित्पौरांगनास्तत्र जजल्पुश्च परस्परम् । काश्चित्तन्मंगलोद्गीतिं गायंति स्म मुदान्विताः।। ८४ ।। सखे दर्शय मामाशु नाम्ना जम्बूकुमारकम् । हेलया निर्जितो येन रत्नचूलखगाधिपः॥ ८५ ॥