________________
जम्बूस्वामिश्रेणिकमहाराजराजगृहप्रवेशवर्णनम् १४७
नांगैस्तत्र हता नागा अश्ववारैर्निषादिनः। असिकुंतशराघातैः पद्मैश्वापि पदातिकाः ॥ ५३ ॥ कारयामासतुर्युद्धं साहंकारौ परस्परम् । रत्नचूलमृगांको द्वाविव रावणराघवौ ।। ५४ ॥ शरासारैस्तदा युद्धं द्वाभ्यां कृतमिवोल्वणम् । न कोऽप्यत्र द्वयोमध्ये जितो वाथ पराजितः॥ ५५ ॥ तत्क्रुद्धो रत्नचूलोऽसौ मायाशुद्धमचीकरत् । माकस्तक्रियायोगे सावधानोऽभवत्तदा ॥ ५६ ॥ पांशुभिः सकलं सैन्यं स चक्रे व्याकुलं तदा । वायव्यास्त्रेण मृगांकोऽसौ शशाम क्षणतो रजः॥ ५७ ॥ अथ रत्नशिखेनोच्चैस्तदा वानलकीलया। प्रज्वालितं मृगांकस्य सैन्यं सर्व क्षणादपि ।। ५८ ॥ मृगांको जलवृष्टया तन्निर्वापयदितस्ततः । इत्यादि मुचिरं सोऽपि वैरिणा युयुधे भृशम् ।। ५९ ॥ नागपाशैस्ततो बवा मृगांकं बलवत्तरः । रत्नचूलः खगेशानो संतुष्टहृदयोऽभवत् ।। ६०॥ ततोऽसौ विजयीभूत्वा बद्वा तं दृढबंधनैः। कुशलं गंतुकामोऽपि वारितः खामिना भृशम् ।। ६१॥ रे रे मूढ क यासि त्वं नीत्वेनं मृगलांछनम् । मयि विद्यति भूपीठे को हि द्रष्टुमतिक्षमः ॥ २ ॥ कः क्षमः शेषमूर्द्धस्थमादातुं मणिमुत्तमम् । कालवक्त्रादिहात्मानं को वा त्रातुं समीहते ॥ ६३ ।। १ अर्चिषा।