________________
जम्बूस्वामिचरिते
अस्त्वस्तु प्रमाणं यद्रत्नचूल त्वयोदितम् । हेनो (म्नः संल्ल) लक्ष्यते ह्यग्नो विशुद्धिः श्यामिकापि वा ।।४२॥ अधुनैव महायुद्धमावयोरुचितं पुनः। विलंब मा कांक्षी (कार्षीः) क्षोभारिपनद्धो भवसंगरे ॥४३॥ कातराणां विधिश्चैष स्वीकृतः सार्वसाक्षिकः। महतां हि प्रतिज्ञैव नियमो यावज्जीवनम् ॥ ४४ ॥ इति मिथो वाचसंदर्भात्स्यातां योद्धं समुद्यतौ । कुमारस्तु यथास्थाने तस्थौ वाचंयमीच सः॥ ४५ ॥ चिंतितं तत्कुमारेण किमत्र क्रियतेऽधुना । भूयायोयथाभाव्यं माध्यस्थ्यं मम सुंदरम् ॥ ४६॥ वारयामि मृगांक चेत्तद्वलस्यापि लाघवम् । स्याद्यतस्तद्विपक्षोऽस्मि विपक्षो रत्नचूलकः ।। ४७॥ रत्नचूले निषिद्धेऽस्मिन्नवश्यं स्यात्त (त्तु गौ)गौरवम् । स्वात्मोत्कर्ष हि पुष्णाति विज्ञत्याराधितो रिपुः॥४८॥ अथानम्य कुमारं तं मन्यमानो यथा गुरुम् । रत्नचूलमृगांको द्वौ संसज्जौ भवतो रणे ॥४९॥ नेदुः संग्रामभेर्यश्च सन्मुखं दलयोयोः । सन्नद्धास्ते भटाः सर्वे सावधाना रणे पुनः॥५०॥ पूर्ववत्तुमुलं युद्धं चक्रुर्भूयोऽपि सैनिकाः। दृष्ट्वा तं रौरवाकारं केचिन्मूछी गताः क्षणात् ॥ ५१ ॥ केचिद्धैर्य समालम्ब्य कुर्वति स्म महाहवम् । शितैः शस्त्रैरुदफ़ैश्च घातयंतोऽरिमंडलम् ॥ ५२॥