________________
अथाष्टमः सर्गः
विजयस्वेति सद्वाक्यं पठितं स्वपुरोधा । मालामिव विधेहि त्वं मूर्ध्नि श्रीसाधुटोडरः ॥१॥ इत्याशीर्वादः। विमलं विमलज्ञानं संस्तुवे चिमलाशयः। छन्दोभंगः अनंतं चानंतवीर्याढ्यं (नान्तवीर्याव्य) वंदेऽनंतगुणाप्तये अथापश्यत्कुमारः स बीभत्सामाहवावनिम् । भावयामास कारुण्यादनित्यां संसृतिस्थितिम् ॥२॥ अहो चेद्वह्निसंयोगादुष्णीभूतं जलं कचित् । तत्कि द्रव्यं गुणापेक्ष शीतलं न स्वभावतः ॥३॥ उच्छिष्टां ज्ञानवद्भिश्च धिगिमा संसृतिस्थितिम् । अमी दुर्बोधमानांधा मृत्वा वा दुर्गतिं ययुः॥ ४ ॥ हृषीकविषयासक्ताः केवलं मृतिमगुस्ततः। स्वयमेत्य पतंगश्च यथागाद्वहिरोचिपि ॥ ५ ॥ अहो कथंचित्संप्राप्त....काश्चापि न शांत....। (प्रत्यु) त तृष्णावृद्धये ते जायन्ते विषयाः स्वतः॥६॥ आपाके कटुकं यस्य किंपाकस्य तरोः फलम् । त................स्वादु बीजं भवितुमर्हति ॥ ७॥ अथ चेद्विषयातनां संप्राप्ता च सुखं स्वतः । न्यायात्कथं कृ............श्रेयस्कराः स्मृताः॥८॥ १ पुरोहितेन । २ युद्धभूमि । १ इन्द्रियाणि ।