________________
जम्बूस्वामिविजयवर्णनम्
१४१
व्योमगतिश्च सानंदात्कारयामास तत्क्षणे । प्रीतिवर्धनमत्यंतं जंबूस्वामिमृगांकयोः ॥ २५५ ॥ जयो लब्धः कुमारेण जानुलंवितबाहुना । सहस्राष्टमितान् हत्वा लीलया खचराधिपान् ॥ २५६ ॥ एक एव सदा सेव्यो धर्मो सौख्यमभीप्सुभिः। यद्विपाकात्कुमारेण जयश्रीः किंकरीकृता ॥ २५७ ॥ इति श्रीजम्बूस्वामिचरित्रे भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासात्मजसाधुटोडरसमभ्यर्थिते निर्जितरत्नचूलविद्याधरप्रतिबद्धलब्धजम्बूस्वामिविजयवर्णनं नाम सप्तमः सर्गः ॥८॥